(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.12. अध्यायः 012
Mahabharata - Bhishma Parva - Chapter Topics
क्रौञ्चदिद्वीपवर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-12-0x(3984)(39067)
उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा।
एवं तत्र महाराज ब्रुवतश्च निबोध मे ॥ 6-12-1(39068)
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः ।
सुरोदः सागरश्चैव तथान्यो जलसागरः ॥ 6-12-2(39069)
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप ।
पर्वताश्च महाराज समुद्रैः परिवारिताः ॥ 6-12-3(39070)
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् ।
पर्वतः पश्चिमे कृष्णो नारायणसखो नृप ॥ 6-12-4(39071)
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम् ॥ 6-12-5(39072)
कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह ।
संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप ॥ 6-12-6(39073)
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः ।
संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥ 6-12-7(39074)
गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् ।
यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ 6-12-8(39075)
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ।
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ॥ 6-12-9(39076)
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ।
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ॥ 6-12-10(39077)
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ।
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ॥ 6-12-11(39078)
तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः ।
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ 6-12-12(39079)
तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् ।
धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम् ॥ 6-12-13(39080)
सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः ।
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ॥ 6-12-14(39081)
विहरन्ते रमन्ते च न तेषु म्रियते जनः।
न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप ॥ 6-12-15(39082)
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ।
अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर ॥ 6-12-16(39083)
यथाश्रुतं महाराज तदव्यग्रमनाः श्रृणु ।
क्रौञ्चद्वीपे महारा क्रौञ्चो नाम महागिरिः ॥ 6-12-17(39084)
क्रौञ्चात्परो वामनको वामनादन्धकारकः।
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः । 6-12-18(39085)
मैनाकात्परतो रादन्गोविन्दो गिरिरुत्तमः ।
गोविन्दात्परतो राजन्निबिडो नाम पर्वतः ॥ 6-12-19(39086)
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ।
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥ 6-12-20(39087)
क्रोञ्चस्य कुशलो देशो वामनस्य मनोनुगः।
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ॥ 6-12-21(39088)
उष्णात्परः प्रावरकः प्रावारादन्धकारकः।
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ 6-12-22(39089)
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः।
सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप ॥ 6-12-23(39090)
एते देशा महाराज देवगन्धर्वसेविताः ।
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ॥ 6-12-24(39091)
तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः ।
तं पर्युपासते नित्यं देवाः सर्वे महर्षयः ॥ 6-12-25(39092)
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप।
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ॥ 6-12-26(39093)
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम।
ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च ॥ 6-12-27(39094)
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः।
एको जनपदो राजन्द्वीपेष्वेतेषु भारत।
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥ 6-12-28(39095)
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः ।
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥ 6-12-29(39096)
स राजा स शिवो राजन्स पिता प्रतितामहः ।
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥ 6-12-30(39097)
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् ।
सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा ॥ 6-12-31(39098)
ततः परं समा नाम दृश्यते लोकसंस्थितिः।
चतुरश्र महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥ 6-12-32(39099)
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः।
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥ 6-12-33(39100)
सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः।
तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ॥ 6-12-34(39101)
असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ।
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि ॥ 6-12-35(39102)
असंबद्धा महाराज तान्निगृह्णन्ति ते गजाः ।
पुष्करैः पद्मसंकाशैर्विकसद्भिर्महाप्रभैः ॥ 6-12-36(39103)
शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः ।
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः ।
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥ 6-12-37(39104)
धृतराष्ट्र उवाच। 6-12-38x(3985)
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः।
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ॥ 6-12-38(39105)
सञ्जय उवाच। 6-12-39x(3986)
उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः ।
स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः ॥ 6-12-39(39106)
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः ।
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥ 6-12-40(39107)
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ ।
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥ 6-12-41(39108)
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः ।
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥ 6-12-42(39109)
एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः ॥ 6-12-43(39110)
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन।
विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम् ॥ 6-12-44(39111)
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ।
श्रूयते परमोदारः पतगोऽसौ विभावसुः ॥ 6-12-45(39112)
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ।
स राहुश्छादयत्येतौ यथाकालं महात्तया ॥ 6-12-46(39113)
चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः ।
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ॥ 6-12-47(39114)
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ।
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ॥ 6-12-48(39115)
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति।
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ॥ 6-12-49(39116)
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ।
आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते ॥ 6-12-50(39117)
यः शृणोति महीपाल पर्वणीदं यतव्रतः ।
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥ 6-12-51(39118)
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्।
पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि ॥ ॥ 6-12-52(39119)

इति श्रीमन्महाभारते भीष्मपर्वणि भूमिपर्वणि द्वादशोऽध्यायः ॥ ॥ समाप्तमिदं भूमिपर्व ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-12-4 मानःशिलो मनःशिलामयः ॥ 6-12-34 तस्य गजचतुष्टयस्य पृथिव्या आश्रयभूतस्य । तत्कस्योपरिवर्तते इति दुर्वचम्। तेन ईश्वरशक्त्यैव दिग्गजा ध्रियन्त इति भावः ॥ 6-12-36 पुष्करैः शुण्डाग्रैः ॥ 6-12-39 उत्तरं सूर्येन्दुराहुप्रमाणम् ॥ 6-12-41 परिणाहेन परिधिना षट्त्रिंशत्सहस्राणि विपुलत्वेन ततोऽप्याधिक्येन ॥ 6-12-42 षष्टिर्योजनानि परिणाह एवेत्यर्थः ॥ 6-12-45 पतगः शीघ्रगः । विभावसुः सूर्यः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.